मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २२, ऋक् १०

संहिता

अ॒स्माक॒मित्सु शृ॑णुहि॒ त्वमि॑न्द्रा॒स्मभ्यं॑ चि॒त्राँ उप॑ माहि॒ वाजा॑न् ।
अ॒स्मभ्यं॒ विश्वा॑ इषण॒ः पुरं॑धीर॒स्माकं॒ सु म॑घवन्बोधि गो॒दाः ॥

पदपाठः

अ॒स्माक॑म्् । इत् । सु । शृ॒णु॒हि॒ । त्वम् । इ॒न्द्र॒ । अ॒स्मभ्य॑म् । चि॒त्रान् । उप॑ । मा॒हि॒ । वाजा॑न् ।
अ॒स्मभ्य॑म् । विश्वाः॑ । इ॒ष॒णः॒ । पुर॑म्ऽधीः । अ॒स्माक॑म् । सु । म॒घ॒ऽव॒न् । बो॒धि॒ । गो॒ऽदाः ॥

सायणभाष्यम्

हे इन्द्र त्वमस्माकमित् अस्मदीया एव स्तुतीः सु सुष्ठु शृणुहि । तथा हे इन्द्र त्वं चित्रान् चायनीयानि वाजानन्नान्यस्मभ्यमुप माहि । देहि । किञ्च अस्मभ्यं विश्वाः सर्वाः पुरन्धीर्बुद्धीरिषणः । प्रेरय । अपि च हे मघवन्धनवन्निन्द्र अस्माकं गोदा गवां दाता सु सुष्ठु बोधि । भव ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः