मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २३, ऋक् ६

संहिता

किमादम॑त्रं स॒ख्यं सखि॑भ्यः क॒दा नु ते॑ भ्रा॒त्रं प्र ब्र॑वाम ।
श्रि॒ये सु॒दृशो॒ वपु॑रस्य॒ सर्गा॒ः स्व१॒॑र्ण चि॒त्रत॑ममिष॒ आ गोः ॥

पदपाठः

किम् । आत् । अम॑त्रम् । स॒ख्यम् । सखि॑ऽभ्यः । क॒दा । नु । ते॒ । भ्रा॒त्रम् । प्र । ब्र॒वा॒म॒ ।
श्रि॒ये । सु॒ऽदृशः॑ । वपुः॑ । अ॒स्य॒ । सर्गाः॑ । स्वः॑ । न । चि॒त्रऽत॑मम् । इ॒षे॒ । आ । गोः ॥

सायणभाष्यम्

हे इन्द्र वयं यजमानास्ते त्वदीयममत्रं शत्रूनभिभावुकं सख्यं सखिकर्म सखिभ्यः स्तोतृभ्यः किमात् किं स्वित् प्र ब्रवाम । प्रकर्षेण वदेम । ते त्वदीयं भ्रात्रं भ्रातृकर्म च कदा नु कदा खलु प्र ब्रवाम । सुदृशः शोभनदर्शनस्यास्येन्द्रस्य सम्बन्धिनः सर्गा उद्योगाः श्रिये सर्वेषां स्तोतॄणां श्रेयसे । भवन्तीति शेषः । स्वर्ण सूर्यो यथा दर्शनीयतमस्तथा गोर्गन्तुरिन्द्रस्य चित्रतमं दर्शनीयतमं वपुः शरीरमेषे । आ समन्तात्सर्वैरिषुयते ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०