मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २३, ऋक् ७

संहिता

द्रुहं॒ जिघां॑सन्ध्व॒रस॑मनि॒न्द्रां तेति॑क्ते ति॒ग्मा तु॒जसे॒ अनी॑का ।
ऋ॒णा चि॒द्यत्र॑ ऋण॒या न॑ उ॒ग्रो दू॒रे अज्ञा॑ता उ॒षसो॑ बबा॒धे ॥

पदपाठः

द्रुह॑म् । जिघां॑सन् । ध्व॒रस॑म् । अ॒नि॒न्द्राम् । तेति॑क्ते । ति॒ग्मा । तु॒जसे॑ । अनी॑का ।
ऋ॒णा । चि॒त् । यत्र॑ । ऋ॒ण॒ऽयाः । नः॒ । उ॒ग्रः । दू॒रे । अज्ञा॑ताः । उ॒षसः॑ । ब॒बा॒धे ॥

सायणभाष्यम्

अयमिन्द्रो द्रुहं द्रोहं कर्वतीं ध्वरसं हिंसिकामनिन्द्रामिन्द्रमजानतीं राक्षसीं जिघांसन् हन्तुमिच्छन् तिग्मा तिग्मानि पूर्वमेव तीक्ष्णान्यनीकानीकान्यायुधानि तुजसे तद्वधाय तेतिक्ते । अत्यर्थं तीक्ष्णीकरोति । यत्र यासूषः सु तुदुपलक्षितेष्वहः स्वृणा चित् ऋणान्यपि नोऽस्यान्बाधन्त इति शेषः । ता उषसश्चोग्र उद्गूर्णबल ऋणया ऋणस्य हन्तेन्द्रः । यावर्वधकर्मा । दूरेऽज्ञाता अननुभूताः सतीर्बबाधे । अपीडयत् ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०