मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २४, ऋक् ८

संहिता

य॒दा स॑म॒र्यं व्यचे॒दृघा॑वा दी॒र्घं यदा॒जिम॒भ्यख्य॑द॒र्यः ।
अचि॑क्रद॒द्वृष॑णं॒ पत्न्यच्छा॑ दुरो॒ण आ निशि॑तं सोम॒सुद्भि॑ः ॥

पदपाठः

य॒दा । स॒ऽम॒र्यम् । वि । अचे॑त् । ऋघा॑वा । दी॒र्घम् । यत् । आ॒जिम् । अ॒भि । अख्य॑त् । अ॒र्यः ।
अचि॑क्रदत् । वृष॑णम् । पत्नी॑ । अच्छ॑ । दु॒रो॒णे । आ । निऽशि॑तम् । सो॒म॒सुत्ऽभिः॑ ॥

सायणभाष्यम्

यदा ऋघावा शत्रूणां हिंसक इन्द्रः समर्यं सह मर्तव्यं शत्रुं व्युचेत् व्यज्ञासीत् विशेषेण जानीयात् । यद्यादार्यः स्वामीन्द्रो दीर्घमत्यधिकमाजिं सङ्ग्राममभ्यख्यत् अभिपश्येत् तदा तस्येन्द्रस्य पत्नी दुरोणे यज्ञगृहे सोमसुद्भिः सोमं सुन्वद्भिरृत्विग्भिर्निशितं तीक्ष्णीकृतम् । सोमपानेनोत्साहवन्तमित्यर्थः । वृषणं कामानां वर्षितारमिन्द्रमच्छाभि आचिक्रदत् । आक्रन्दति । आह्वयते ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२