मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २५, ऋक् १

संहिता

को अ॒द्य नर्यो॑ दे॒वका॑म उ॒शन्निन्द्र॑स्य स॒ख्यं जु॑जोष ।
को वा॑ म॒हेऽव॑से॒ पार्या॑य॒ समि॑द्धे अ॒ग्नौ सु॒तसो॑म ईट्टे ॥

पदपाठः

कः । अ॒द्य । नर्यः॑ । दे॒वऽका॑मः । उ॒शन् । इन्द्र॑स्य । स॒ख्यम् । जु॒जो॒ष॒ ।
कः । वा॒ । म॒हे । अव॑से । पार्या॑य । सम्ऽइ॑द्धे । अ॒ग्नौ । सु॒तऽसो॑मः । ई॒ट्टे॒ ॥

सायणभाष्यम्

को अद्येत्यष्टर्चं चतुर्थं सूक्तं वामदेवस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रान्तम् । को अद्याष्टाविति । दशरात्रे चतुर्थेऽहनि माध्यन्दिने सवने स्तोमव्रुद्धौ मैत्रावरुणशस्त्र आरम्भणीयाया उपरिष्टादिदं सूक्तमावपनीयं च । सूत्रितं च । स्तोमे वर्धमाने को अद्य नर्यः ॥ आ. ७-१२ ॥ इति ॥

अद्यास्मिन्दिवसे नर्यो मनुष्यहितो देवकामो देवानिच्छन् उशन् कामयमानः को यजमान इन्द्रस्य सख्यं सखित्वं जुजोष । सेवते । किञ्च सुतसोमोऽभिशुतसोमः को वा यजमानोऽग्नौ समिद्धे प्रज्वलिते सति महे महते प्रवृद्धाय पार्याय पारमर्हतेऽवसे तर्पणायेट्टे । इन्द्रं स्तौति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३