मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २५, ऋक् ३

संहिता

को दे॒वाना॒मवो॑ अ॒द्या वृ॑णीते॒ क आ॑दि॒त्याँ अदि॑तिं॒ ज्योति॑रीट्टे ।
कस्या॒श्विना॒विन्द्रो॑ अ॒ग्निः सु॒तस्यां॒शोः पि॑बन्ति॒ मन॒सावि॑वेनम् ॥

पदपाठः

कः । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒ते । कः । आ॒दि॒त्यान् । अदि॑तिम् । ज्योतिः॑ । ई॒ट्टे॒ ।
कस्य॑ । अ॒श्विनौ॑ । इन्द्रः॑ । अ॒ग्निः । सु॒तस्य॑ । अं॒शोः । पि॒ब॒न्ति॒ । मन॑सा । अवि॑ऽवेनम् ॥

सायणभाष्यम्

अद्यास्मिन्दिने को यजमानो देवानां द्योतमानानामिन्द्रादीनामवो रक्षणं वृणीते । प्रार्थयते । क आदित्यान्देवानदितिं देवमातरं च ज्योतिरुदकं चेट्टे । याचते । अश्विनावश्वि देवाविन्द्रश्चाग्निश्च मनसा स्तुत्या प्रीताः सन्तोऽविवेनमविगतम् ामम् । यथाकाममित्यर्थः । कस्य यजमानस्य सम्बन्धिनं सुतस्याभिषुतस्यांशोः सोमस्य । सोममित्यर्थः । पिबन्ति । पानं कुर्वन्ति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३