मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २७, ऋक् ३

संहिता

अव॒ यच्छ्ये॒नो अस्व॑नी॒दध॒ द्योर्वि यद्यदि॒ वात॑ ऊ॒हुः पुरं॑धिम् ।
सृ॒जद्यद॑स्मा॒ अव॑ ह क्षि॒पज्ज्यां कृ॒शानु॒रस्ता॒ मन॑सा भुर॒ण्यन् ॥

पदपाठः

अव॑ । यत् । श्ये॒नः । अस्व॑नीत् । अध॑ । द्योः । वि । यत् । यदि॑ । वा॒ । अतः॑ । ऊ॒हुः । पुर॑म्ऽधिम् ।
सृ॒जत् । यत् । अ॒स्मै॒ । अव॑ । ह॒ । क्षि॒पत् । ज्याम् । कृ॒शानुः॑ । अस्ता॑ । मन॑सा । भु॒र॒ण्यन् ॥

सायणभाष्यम्

अध तदानीं सोमाहरणकाले यद्यदा श्येनो द्योर्द्युलोकादवास्वनीत् अवाङ्मुखं शब्दमकरोत् । यदि वा यदा च । वेति चार्थे । यद्यं पुरन्धिं सोममतोऽस्माच्छ्येनाद्व्यूहः । सोमपाला विक्षिप्तवन्तः । यद्यदास्ताशराणां क्षेप्ता मनसा मनोवेगेन भुरण्यन् गन्तुमिच्छन् कृशानुरेतन्नामकः सोमपालो ज्यां धनुषः कोटौ वौर्वीं क्षिपद्ध । चिक्षेप खलु । अस्मैश्येनाय शरमवासृजत् । त्यक्तवान् । तथा च ब्राह्मणम् । तस्या अनुविसृज्य क्रुशानुः सोमपालः सव्यस्य पदो नखमच्छिददित्यादि । ऐ. ब्रा. ३-२६ ॥ यदा सोमपाला इत्थमित्थं चक्रुस्तदा श्येनः सोममाजहारेत्यृचोत्तरया सम्बन्धः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६