मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २८, ऋक् ३

संहिता

अह॒न्निन्द्रो॒ अद॑हद॒ग्निरि॑न्दो पु॒रा दस्यू॑न्म॒ध्यंदि॑नाद॒भीके॑ ।
दु॒र्गे दु॑रो॒णे क्रत्वा॒ न या॒तां पु॒रू स॒हस्रा॒ शर्वा॒ नि ब॑र्हीत् ॥

पदपाठः

अह॑न् । इन्द्रः॑ । अद॑हत् । अ॒ग्निः । इ॒न्दो॒ इति॑ । पु॒रा । दस्यू॑न् । म॒ध्यन्दि॑नात् । अ॒भीके॑ ।
दुः॒ऽगे । दु॒रो॒णे । क्रत्वा॑ । न । या॒ताम् । पु॒रु । स॒हस्रा॑ । शर्वा॑ । नि । ब॒र्ही॒त् ॥

सायणभाष्यम्

हे इन्दो सोम अभीके सङ्ग्रामे दस्यून् शत्रूनिन्द्रोऽहन् । अवधीत् । अग्निः कांश्चिच्छत्रूनदहत् । ददाह । कीदृशाविन्द्राग्नी । मध्यन्दिनान्मध्याह्नात्पुरा पुरस्तात्पूर्वाह्णे तव पानाल्लब्धबलाविति शेशः । यातां गच्छतामसुरानां पुरु पुरूणि बहूनि सर्वा सर्वाणि निरवशेषाणि सहस्रा सहस्राण्यपरिमितानि नि हर्हीत् । न्यबर्हीत् । इन्द्रोऽवधीत् । तत्र दृष्टान्तः । दुरोणे दुरवने रक्षितुमशक्ये दुर्गे दुरवगाहे देशे क्रत्वा न कर्मणा स्वकीयं कार्यमुद्दिश्य गच्छतः पथिकान्यथा धनलोलुपश्चोरो हन्ति तद्वत् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७