मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २८, ऋक् ५

संहिता

ए॒वा स॒त्यं म॑घवाना यु॒वं तदिन्द्र॑श्च सोमो॒र्वमश्व्यं॒ गोः ।
आद॑र्दृत॒मपि॑हिता॒न्यश्ना॑ रिरि॒चथु॒ः क्षाश्चि॑त्ततृदा॒ना ॥

पदपाठः

ए॒व । स॒त्यम् । म॒घ॒ऽवा॒ना॒ । यु॒वम् । तत् । इन्द्रः॑ । च॒ । सो॒म॒ । ऊ॒र्वम् । अश्व्य॑म् । गोः ।
आ । अ॒द॒र्दृ॒त॒म् । अपि॑ऽहितानि । अश्ना॑ । रि॒रि॒चथुः॑ । क्षाः । चि॒त् । त॒तृ॒दा॒ना ॥

सायणभाष्यम्

हे सोम त्वं चेन्द्रश्चेति युवामुभापूर्वं महान्तमश्व्यमश्वसमूहं गोर्गवां समूहं चादर्दृतम् । आदरयतम् । अपिहितानि पणिभिराच्छादितानि गवां वृन्दानि क्षाश्चित् पणीनां भूमिश्चाश्नाशनपरेण बलेन रिरिचधुः । रेचितवन्तौ । हे मघवानौ धनवन्ताविन्द्रासोमौ ततृदाना शत्रूणां हिंसकौ युवं युवामेवैवमुक्तप्रकारेण यत्कृतवन्तौ तत्सर्वं सत्यमेव ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७