मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २९, ऋक् ४

संहिता

अच्छा॒ यो गन्ता॒ नाध॑मानमू॒ती इ॒त्था विप्रं॒ हव॑मानं गृ॒णन्त॑म् ।
उप॒ त्मनि॒ दधा॑नो धु॒र्या॒३॒॑शून्त्स॒हस्रा॑णि श॒तानि॒ वज्र॑बाहुः ॥

पदपाठः

अच्छ॑ । यः । गन्ता॑ । नाध॑मानम् । ऊ॒ती । इ॒त्था । विप्र॑म् । हव॑मानम् । गृ॒णन्त॑म् ।
उप॑ । त्मनि॑ । दधा॑नः । धु॒रि । आ॒शून् । स॒हस्रा॑णि । श॒तानि॑ । वज्र॑ऽबाहुः ॥

सायणभाष्यम्

वज्रबाहुर्वज्रहस्तो य इन्द्रस्त्मन्यात्मनि स्थितानात्मवश्यान् सहस्राणि सहस्रसंख्याकान् शतानि शतसंख्याकानाशून् शीघ्रगामिनोऽश्वान्धुरि रथवहनप्रदेश उप दधानः संस्थापयन्नूती रक्षनार्थं नाधमानं याचमानं विप्रं मेधाविनं हवमानमाह्वयन्तमित्थेत्थमनेन प्रकारेण गृणन्तं स्तुवन्तं यजमानमच्छाभि मुख्येन तन्ता गमनशीलः । भवतीति शेषः । स इन्द्रः सुतीर्थान्यभयं च करोत्विति पूर्वेण स्मबन्धः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८