मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३०, ऋक् १९

संहिता

अनु॒ द्वा ज॑हि॒ता न॑यो॒ऽन्धं श्रो॒णं च॑ वृत्रहन् ।
न तत्ते॑ सु॒म्नमष्ट॑वे ॥

पदपाठः

अनु॑ । द्वा । ज॒हि॒ता । न॒यः॒ । अ॒न्धम् । श्रो॒णम् । च॒ । वृ॒त्र॒ऽह॒न् ।
न । तत् । ते॒ । सु॒म्नम् । अष्ट॑वे ॥

सायणभाष्यम्

हे वृत्रहन् वृत्रस्य हिंसकेन्द्र त्वं जहिता जहितौ सर्वैर्बन्धुभिस्त्यक्तावन्धं चक्षुर्हीनमेकं श्रोणं च पङ्गुमपरं च द्वा एतौ द्वावनु नयः । अन्धपङ्गुत्व परिहारेणानुनीतवानसि । हे इन्द्र ते त्वया दत्तं तत्सुम्नं सुखमष्टवे व्याप्तुं कोऽपि न प्रभवतिति शेषः ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२