मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३०, ऋक् २१

संहिता

अस्वा॑पयद्द॒भीत॑ये स॒हस्रा॑ त्रिं॒शतं॒ हथै॑ः ।
दा॒साना॒मिन्द्रो॑ मा॒यया॑ ॥

पदपाठः

अस्वा॑पयत् । द॒भीत॑ये । स॒हस्रा॑ । त्रिं॒शत॑म् । हथैः॑ ।
दा॒साना॑म् । इन्द्रः॑ । मा॒यया॑ ॥

सायणभाष्यम्

इन्द्रो मयया स्वकीयया शक्त्या दासानां लोकानामुपक्षपयितॄणां राक्षसादीनां त्रिंशतं त्रिंशत्संख्याकानि सहस्रा सहस्राणि दभीतये दभीतिनामकस्यार्थाय हथैर्हननसाधनैरायुधैरस्वापयत् । अवधीत् ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३