उ॒त नू॒नं यदि॑न्द्रि॒यं क॑रि॒ष्या इ॑न्द्र॒ पौंस्य॑म् ।
अ॒द्या नकि॒ष्टदा मि॑नत् ॥
उ॒त । नू॒नम् । यत् । इ॒न्द्रि॒यम् । क॒रि॒ष्याः । इ॒न्द्र॒ । पौंस्य॑म् ।
अ॒द्य । नकिः॑ । तत् । आ । मि॒न॒त् ॥
उतापि च हे इन्द्र यत्पौंस्यं त्वदीयं बलमिन्द्रियं सामर्थ्योपेतं नूनं करिष्याः । क्वतवानसि खलु । अद्याद्यतनः कश्चित्तद्बलं नकिरा मिनत् । न हिंस्यात् ॥ २३ ॥