मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३१, ऋक् ११

संहिता

अ॒स्माँ इ॒हा वृ॑णीष्व स॒ख्याय॑ स्व॒स्तये॑ ।
म॒हो रा॒ये दि॒वित्म॑ते ॥

पदपाठः

अ॒स्मान् । इ॒ह । वृ॒णी॒ष्व॒ । स॒ख्याय॑ । स्व॒स्तये॑ ।
म॒हः । रा॒ये । दि॒वित्म॑ते ॥

सायणभाष्यम्

हे इन्द्र त्वमिहास्मिन्यज्ञेऽस्मान्यजमानान् सख्याय सखिभावाय स्वस्तयेऽविनाशाय च महो महते दिवित्मते दीप्तिमते राये धनाय च वृणीष्व । सम्भजस्व ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६