मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३१, ऋक् १२

संहिता

अ॒स्माँ अ॑विड्ढि वि॒श्वहेन्द्र॑ रा॒या परी॑णसा ।
अ॒स्मान्विश्वा॑भिरू॒तिभि॑ः ॥

पदपाठः

अ॒स्मान् । अ॒वि॒ड्ढि॒ । वि॒श्वहा॑ । इन्द्र॑ । रा॒या । परी॑णसा ।
अ॒स्मान् । विश्वा॑भिः । ऊ॒तिऽभिः॑ ॥

सायणभाष्यम्

हे इन्द्र त्वं विश्वहा सर्वेष्वहःसु परीणसा महता राया धनेनास्मान्यजमानानविड्ढि । रक्ष । किञ्च विश्वाभिः सर्वाभिरूतिभी रक्शाभिरस्मानविड्ढी ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६