मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३१, ऋक् १३

संहिता

अ॒स्मभ्यं॒ ताँ अपा॑ वृधि व्र॒जाँ अस्ते॑व॒ गोम॑तः ।
नवा॑भिरिन्द्रो॒तिभि॑ः ॥

पदपाठः

अ॒स्मभ्य॑म् । तान् । अप॑ । वृ॒धि॒ । व्र॒जान् । अस्ता॑ऽइव । गोऽम॑तः ।
नवा॑भिः । इ॒न्द्र॒ । ऊ॒तिऽभिः॑ ॥

सायणभाष्यम्

हे इन्द्र त्वं नवाभिनूतनाभिरूतिभी रक्षाभिरस्तेव क्षेप्ता शूर इव गोमतो गोभिर्युक्तान् तान् प्रसिद्धान्रजान् गोनिवासानस्मभ्यमपा वृधि । उद्घाटय ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६