मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३१, ऋक् १४

संहिता

अ॒स्माकं॑ धृष्णु॒या रथो॑ द्यु॒माँ इ॒न्द्रान॑पच्युतः ।
ग॒व्युर॑श्व॒युरी॑यते ॥

पदपाठः

अ॒स्माक॑म् । धृ॒ष्णु॒ऽया । रथः॑ । द्यु॒ऽमान् । इ॒न्द्र॒ । अन॑पऽच्युतः ।
ग॒व्युः । अ॒श्व॒ऽयुः । ई॒य॒ते॒ ॥

सायणभाष्यम्

हे इन्द्र धृष्णुया धृष्णुः शत्रूणां धर्षको द्युमान्दीप्तिमाननपच्युतो विनाशरहितो गव्युर्गोमानश्वयुरश्ववानस्माकमस्मत्सम्बन्धी रथ ईयते । सर्वत्र गच्छतु । तेन रथेनास्मान्रक्शेत्यर्थः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६