मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३१, ऋक् १५

संहिता

अ॒स्माक॑मुत्त॒मं कृ॑धि॒ श्रवो॑ दे॒वेषु॑ सूर्य ।
वर्षि॑ष्ठं॒ द्यामि॑वो॒परि॑ ॥

पदपाठः

अ॒स्माक॑म् । उ॒त्ऽत॒मम् । कृ॒धि॒ । श्रवः॑ । दे॒वेषु॑ । सू॒र्य॒ ।
वर्षि॑ष्ठम् । द्याम्ऽइ॑व । उ॒परि॑ ॥

सायणभाष्यम्

अस्माकमुत्तमं कृधीत्यनयादित्यं दृष्ट्वा रथादवरोहेत् । तथा च सूत्रितम् । अस्माकमत्तमं कृधीत्यादित्यमीक्षमाणो जपित्वावरोहेत् । आ. गृ. २-६-१२ । इति

हे सूर्य सर्वस्य प्रेरकेन्द्र हे आदित्य वा त्वं देवेषु द्योतमानेषु वह्न्यादिषु मध्येऽस्माकमस्मत्सम्बन्धि श्रवो यश उत्तममुत्कृष्टं कृधि । कुरु । तत्र दृष्टान्तः । वर्षिष्थमतिशयेन प्रवृद्धं सेचनसमर्थं वा द्यामिव द्युलोकं यथा सर्वेषां लोकानामुपरि स्थितमुत्कृष्टमकरोस्तद्वत् ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६