मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३२, ऋक् ९

संहिता

अ॒भि त्वा॒ गोत॑मा गि॒रानू॑षत॒ प्र दा॒वने॑ ।
इन्द्र॒ वाजा॑य॒ घृष्व॑ये ॥

पदपाठः

अ॒भि । त्वा॒ । गोत॑माः । गि॒रा । अनू॑षत । प्र । दा॒वने॑ ।
इन्द्र॑ । वाजा॑य । घृष्व॑ये ॥

सायणभाष्यम्

हे इन्द्र त्वा त्वामभि लक्षीकृत्य गोतमा एतन्नामका ऋषयो गिरा स्तुति रूपया वाचा दावने धनदानार्थं प्रानूषत । प्रकर्षेण स्तुवन्ति । घृष्वये महते वाजायान्नाय प्रस्तुवन्ति ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८