मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३२, ऋक् १२

संहिता

अवी॑वृधन्त॒ गोत॑मा॒ इन्द्र॒ त्वे स्तोम॑वाहसः ।
ऐषु॑ धा वी॒रव॒द्यशः॑ ॥

पदपाठः

अवी॑वृधन्त । गोत॑माः । इन्द्र॑ । त्वे इति॑ । स्तोम॑ऽवाहसः ।
आ । ए॒षु॒ । धाः॒ । वी॒रऽव॑त् । यशः॑ ॥

सायणभाष्यम्

स्तोमवाहसः स्तोमानां स्तोत्राणां वोढारो गोतमा ऋषयो हे इन्द्र त्वे त्वामवीवृधन्त । स्तोत्रैर्वर्धयन्ति । त्वमेषु गोतमेषु वीरवत्पुत्रपौत्रादियुक्तं यशोऽन्नमा धाः । निधेहि ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९