मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३२, ऋक् १४

संहिता

अ॒र्वा॒ची॒नो व॑सो भवा॒स्मे सु म॒त्स्वान्ध॑सः ।
सोमा॑नामिन्द्र सोमपाः ॥

पदपाठः

अ॒र्वा॒ची॒नः । व॒सो॒ इति॑ । भ॒व॒ । अ॒स्मे इति॑ । सु । म॒त्स्व॒ । अन्ध॑सः ।
सोमा॑नाम् । इ॒न्द्र॒ । सो॒म॒ऽपाः॒ ॥

सायणभाष्यम्

हे वसो यज्ञनिवासकेन्द्र त्वमस्मे अस्मासु यजमानेष्वर्वाचीनोऽभिमुखो भव । तथा हे सोमपाः सोमानां पातरिन्द्र त्वं सोमानामन्धसोऽन्नेन सु सुष्ठु मत्स्व । माद्य ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९