मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३२, ऋक् १५

संहिता

अ॒स्माकं॑ त्वा मती॒नामा स्तोम॑ इन्द्र यच्छतु ।
अ॒र्वागा व॑र्तया॒ हरी॑ ॥

पदपाठः

अ॒स्माक॑म् । त्वा॒ । म॒ती॒नाम् । आ । स्तोमः॑ । इ॒न्द्र॒ । य॒च्छ॒तु॒ ।
अ॒र्वाक् । आ । व॒र्त॒य॒ । हरी॒ इति॑ ॥

सायणभाष्यम्

मतीनां स्तोतॄनाम् । मन्यतेः कर्तरि क्तिच् । अस्माकं सम्बन्धि स्तोमः स्तोत्रं हे इन्द्र त्वा त्वामा यच्छतु । अस्मासु नियच्छतु । त्वमपि हरी त्वदीयावश्वावर्वागस्मदभिमुखं यथा भवति तथा आ वर्तय । परिवर्तनं कुरु ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९