मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३२, ऋक् २४

संहिता

अरं॑ म उ॒स्रया॒म्णेऽर॒मनु॑स्रयाम्णे ।
ब॒भ्रू यामे॑ष्व॒स्रिधा॑ ॥

पदपाठः

अर॑म् । मे॒ । उ॒स्रऽया॑म्ने । अर॑म् । अनु॑स्रऽयाम्ने ।
ब॒भ्रू इति॑ । यामे॑षु । अ॒स्रिधा॑ ॥

सायणभाष्यम्

हे इन्द्र अस्रिधास्रिधावहिंसकौ बभ्रू बभ्रुवर्णौ त्वदीयावश्वौ यामेषु गमनेषु प्राप्तेषु सत्सूस्रयाम्णे । उस्राभ्यामनडुड्भ्त्यां युक्तेन रथेन यातीत्युस्रयामा । तस्मै मे मह्यमरमलं पर्याप्तकारिणौ भवताम् । अनुस्रयाम्णे पद्भ्यामेव गच्छते मह्यमरं पर्याप्तकारिणौ भवतां ॥ २४ ॥

वेदार्थस्य प्रकाशेन तमे हार्दं निवारयन् ।
पुमार्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०