मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३३, ऋक् २

संहिता

य॒दार॒मक्र॑न्नृ॒भवः॑ पि॒तृभ्यां॒ परि॑विष्टी वे॒षणा॑ दं॒सना॑भिः ।
आदिद्दे॒वाना॒मुप॑ स॒ख्यमा॑य॒न्धीरा॑सः पु॒ष्टिम॑वहन्म॒नायै॑ ॥

पदपाठः

य॒दा । अर॑म् । अक्र॑न् । ऋ॒भवः॑ । पि॒तृऽभ्या॑म् । परि॑ऽविष्टी । वे॒षणा॑ । दं॒सना॑भिः ।
आत् । इत् । दे॒वाना॑म् । उप॑ । स॒ख्यम् । आ॒य॒न् । धीरा॑सः । पु॒ष्टिम् । अ॒व॒ह॒न् । म॒नायै॑ ॥

सायणभाष्यम्

यदा यस्मिन्काल ऋभवः पितृभ्यां मातापितृभ्यां परिविष्टी परिवेषणेन परिचर्यया वेषणा वेषनेन व्याप्त्या । यद्वा । वेषेण जरदूपयोर्युवत्वकरणेन दंअनाभिरन्यैश्च मसनिर्माणादिकर्मभिररमत्यर्थमक्रन् आदिदनन्तरमेव देवानामिन्द्रादीनां सख्यं सखित्वं समानख्यानत्वं देवतात्वमुपायन् । आगमन् । युवशा कर्त्वा । ऋग्वे. १-१६१-३ । इति देवत्वप्राप्तेरेकान्तत्वेन देवैरुक्तत्वादिति भावः । किञ्च धीरासो धीरा बुद्धिमन्तस्तेषां पुष्टिं गवादिविषयां मनायै मतिकृते यजमानायावहन् । वहन्ति । धारयन्ति । यद्वा । सविषयाम् पुष्टिं मनायै मनसे प्रक्शुष्तमनस्कत्वायावहन् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः