मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३३, ऋक् ३

संहिता

पुन॒र्ये च॒क्रुः पि॒तरा॒ युवा॑ना॒ सना॒ यूपे॑व जर॒णा शया॑ना ।
ते वाजो॒ विभ्वाँ॑ ऋ॒भुरिन्द्र॑वन्तो॒ मधु॑प्सरसो नोऽवन्तु य॒ज्ञम् ॥

पदपाठः

पुनः॑ । ये । च॒क्रुः । पि॒तरा॑ । युवा॑ना । सना॑ । यूपा॑ऽइव । ज॒र॒णा । शया॑ना ।
ते । वाजः॑ । विऽभ्वा॑ । ऋ॒भुः । इन्द्र॑ऽवन्तः॑ । मधु॑ऽप्सरसः । नः॒ । अ॒व॒न्तु॒ । य॒ज्ञम् ॥

सायणभाष्यम्

य ऋभवः पितरा माता पितरौ यूपेव छिन्नस्थाणू इव जरणा जीर्णौ शयाना शयानौ पुनः सना सदा युवाना युवानौ चक्रुः । नित्यतरुणवकुर्वन् । ते वाजो विभ्वा ऋभुश्च एतन्नामकास्त्रयह् सुधन्वन आङ्गिरसस्य पुत्रा ऋभव इन्द्रवन्तोऽनुग्राहकेणेन्द्रेण तद्वन्तो मधुप्सरसो मधुरस्य सोमरसस्य भक्षयितारो मनोहररूपा वा नोऽस्मदीयं यज्ञमवन्तु । रक्षन्तु गच्छन्तु वा ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः