मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३३, ऋक् ४

संहिता

यत्सं॒वत्स॑मृ॒भवो॒ गामर॑क्ष॒न्यत्सं॒वत्स॑मृ॒भवो॒ मा अपिं॑शन् ।
यत्सं॒वत्स॒मभ॑र॒न्भासो॑ अस्या॒स्ताभि॒ः शमी॑भिरमृत॒त्वमा॑शुः ॥

पदपाठः

यत् । स॒म्ऽवत्स॑म् । ऋ॒भवः॑ । गाम् । अर॑क्षन् । यत् । स॒म्ऽवत्स॑म् । ऋ॒भवः॑ । माः । अपिं॑शन् ।
यत् । स॒म्ऽवत्स॑म् । अ॒भ॑रन् । भासः॑ । अ॒स्याः॒ । ताभिः॑ । शमी॑भिः । अ॒मृ॒त॒ऽत्वम् । आ॒शुः॒ ॥

सायणभाष्यम्

संवत्सम् । संवसन्ति भूतान्यस्मिन्निति संवत्सः संवत्सरः । संवत्सरपर्यन्तमृभवो गां मृतामरक्षन्नपालयन् । स्वसामर्थ्यादिति यत् यदेतत्कर्मास्ति । तथा संवत्सं संवत्सरमृभवो मास्तस्या एव गोर्मांसमपिंशन् अवयवानकुर्वन्निति यत् किञ्च संवत्सं संवत्सरपर्यन्तमस्या भासोऽभरन् दीप्तीरवयवशोभा कुर्वन्निति यत् ताभिः शमीभिर्मृताया गोर्नवीकरणविशयैः कर्मभिरमृतत्वमाशुः । देवत्वं प्राप्ताः । धेनुः कर्त्वेति देवत्वप्राप्तिसाधनत्वेन देवैः प्रतिश्रुतत्वात् । यद्वा । अत्र संवत्समित्येतद्वत्सेन सहेति व्याख्येयं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः