मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३३, ऋक् ५

संहिता

ज्ये॒ष्ठ आ॑ह चम॒सा द्वा क॒रेति॒ कनी॑या॒न्त्रीन्कृ॑णवा॒मेत्या॑ह ।
क॒नि॒ष्ठ आ॑ह च॒तुर॑स्क॒रेति॒ त्वष्ट॑ ऋभव॒स्तत्प॑नय॒द्वचो॑ वः ॥

पदपाठः

ज्ये॒ष्ठः । आ॒ह॒ । च॒म॒सा । द्वा । क॒र॒ । इति॑ । कनी॑यान् । त्रीन् । कृ॒ण॒वा॒म॒ । इति॑ । आ॒ह॒ ।
क॒नि॒ष्ठः । आ॒ह॒ । च॒तुरः॑ । क॒र॒ । इति॑ । त्वष्टा॑ । ऋ॒भ॒वः॒ । तत् । प॒न॒य॒त् । वचः॑ । वः॒ ॥

सायणभाष्यम्

एकं चमसं चतुरस्कृणोतन । ऋग्वे. १-१६१-२ । इति यदा देवदूतोऽग्निरृभूनाह देवत्वप्राप्त्युक्थेन तदा तेषु मध्ये देवत्वप्राप्त्युत्क एको ज्येष्ठ ऋभुरिततावाह । किमिति । उच्यते । चमसा द्वा करेति । एकमेव सन्तं क्वौ कृणवामेति । कनीयान् तदनन्तरो विभ्वा त्रीन् कृणवाम करवामेत्याह । तदवरः कनिष्ठो वाजश्चतुरः कर चतुर्था करवामेत्याह । तदेव चतुष्करणरूपं हे ऋभवस्त्वष्टा युष्मद्गुरुः वो वचः युष्मद्वचनं पनयत् । अस्तौत् । अङ्गीचकारेत्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः