स॒त्यमू॑चु॒र्नर॑ ए॒वा हि च॒क्रुरनु॑ स्व॒धामृ॒भवो॑ जग्मुरे॒ताम् ।
वि॒भ्राज॑मानाँश्चम॒साँ अहे॒वावे॑न॒त्त्वष्टा॑ च॒तुरो॑ ददृ॒श्वान् ॥
स॒त्यम् । ऊ॒चुः॒ । नरः॑ । ए॒व । हि । च॒क्रुः । अनु॑ । स्व॒धाम् । ऋ॒भवः॑ । ज॒ग्मुः॒ । ए॒ताम् ।
वि॒ऽभ्राज॑मानान् । च॒म॒सान् । अहा॑ऽइव । अवे॑नत् । त्वष्टा॑ । च॒तुरः॑ । द॒दृ॒श्वान् ॥
नरो मनुष्यरूपा ऋभवः सत्यमूचुः । सत्यमेवाब्रुवन् । हि यस्मादेश एवैवं चक्रुः । चतुरोऽकुर्वन् । यथोक्तं तथैव कृतत्वादित्यभिप्रायः । अनुचतुर्धाकरनान्तरमेतां तृतीयसवनगतां स्वधां सोमाख्यममृतमृभवो जग्मुः । एकं चमसं चतुरस्कृणोतन साकं देवैर्यज्ञियासो भविष्यथेति श्रुतत्वात् । अथ त्वष्ट्वा देवो विभ्राजमानानहेवाहानीव दीप्यमानांश्च मसांश्चतुरो ददृश्वान्दृश्टवान् सन्नवेनत् । अकामयत । अङ्गीचकारेत्यर्थः ॥ ६ ॥