मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३३, ऋक् ७

संहिता

द्वाद॑श॒ द्यून्यदगो॑ह्यस्याति॒थ्ये रण॑न्नृ॒भवः॑ स॒सन्त॑ः ।
सु॒क्षेत्रा॑कृण्व॒न्नन॑यन्त॒ सिन्धू॒न्धन्वाति॑ष्ठ॒न्नोष॑धीर्नि॒म्नमापः॑ ॥

पदपाठः

द्वाद॑श । द्यून् । यत् । अगो॑ह्यस्य । आ॒ति॒थ्ये । रण॑न् । ऋ॒भवः॑ । स॒सन्तः॑ ।
सु॒ऽक्षेत्रा॑ । अ॒कृ॒ण्व॒न् । अन॑यन्त । सिन्धू॑न् । धन्व॑ । आ । अ॒ति॒ष्ठ॒न् । ओष॑धीः । नि॒म्नम् । आपः॑ ॥

सायणभाष्यम्

तत्र रश्मय एव ऋभव इत्युक्तत्वात्तद्रूपेण स्तूयन्ते । यद्यदा द्वादशद्यून्दिवसान् । आर्द्रादिद्वादशवृष्टिनक्षत्राणीत्यर्थः । अगोह्यस्यागोप्यस्यादित्यस्य गृह आतिथ्ये । अकस्माक्दागतोऽतिथिः । तदुचितं सत्काररूपं कर्मातिथ्यम् । तदर्थं ससंतः स्वपन्तः सुखेन निवसन्त ऋभवो रणन् रमन्ते । अगोह्यस्य यदसस्तना गृहे । ऋग्वे. १-१६१-११ । इत्युक्तम् । तदानीं सुक्षेत्राकृण्वन् । अकृष्तानि शून्यानि क्षेत्राणि वृष्ट्या सस्यादिसमृद्धान्यकुर्वन् । स्निधून्नदीरनयन्त । प्रैरयन् । तस्मिन् काल ओषधीरोषधयो धन्व निरुदकस्थानमाश्रित्यातिष्ठन् । निम्नं नीचस्थानमाप्नोऽतिष्ठन् । उद्वत्स्वस्मा अकृणोतना तृणं निवत्स्वप इत्युक्तं ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः