मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३३, ऋक् ८

संहिता

रथं॒ ये च॒क्रुः सु॒वृतं॑ नरे॒ष्ठां ये धे॒नुं वि॑श्व॒जुवं॑ वि॒श्वरू॑पाम् ।
त आ त॑क्षन्त्वृ॒भवो॑ र॒यिं न॒ः स्वव॑स॒ः स्वप॑सः सु॒हस्ता॑ः ॥

पदपाठः

रथ॑म् । ये । च॒क्रुः । सु॒ऽवृत॑म् । न॒रे॒ऽस्थाम् । ये । धे॒नुम् । वि॒श्व॒ऽजुव॑म् । वि॒श्वऽरू॑पाम् ।
ते । आ । त॒क्ष॒न्तु॒ । ऋ॒भवः॑ । र॒यिम् । नः॒ । सु॒ऽअव॑सः । सु॒ऽअप॑सः । सु॒ऽहस्ताः॑ ॥

सायणभाष्यम्

य ऋभवः सुवृतं सुचक्रं सुष्ठु वर्तमानं वा नरेष्ठां नेतरि चक्रे वर्तमानं रथम् चक्रुः । ये च विश्वजुवं विश्वस्य प्रेरयित्रीं विश्वरूपां बहुरूपामेतन्नामिकां वा धेनुं गां चक्रुः । अकुर्वन् । बृअह्स्पतिर्विश्वरूपामुपाजत । ऋग्वे/ १-१६१-६ । इतिह्युक्तम् । ते महान्त ऋभवो नोऽस्माकं रयिं धनमा तक्षन्तु । सर्वतो निष्पादयन्तु । कीदृशास्त ऋभवः । स्वपसः सुकर्माणः स्ववसः शोभनान्नोपेताः सुरक्षणा वा सुहस्ताः शोभनहस्ताः कुशलहस्ताः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः