मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३३, ऋक् ९

संहिता

अपो॒ ह्ये॑षा॒मजु॑षन्त दे॒वा अ॒भि क्रत्वा॒ मन॑सा॒ दीध्या॑नाः ।
वाजो॑ दे॒वाना॑मभवत्सु॒कर्मेन्द्र॑स्य ऋभु॒क्षा वरु॑णस्य॒ विभ्वा॑ ॥

पदपाठः

अपः॑ । हि । ए॒षा॒म् । अजु॑षन्त । दे॒वाः । अ॒भि । क्रत्वा॑ । मन॑सा । दीध्या॑नाः ।
वाजः॑ । दे॒वाना॑म् । अ॒भ॒व॒त् । सु॒ऽकर्मा॑ । इन्द्र॑स्य । ऋ॒भु॒क्षाः । वरु॑णस्य । विऽभ्वा॑ ॥

सायणभाष्यम्

एषामृभूणामपोऽश्वरथनिर्माणादिरूपं कर्म देवा इन्द्रादयोऽजुषन्त । आसेवन्त । इन्द्रो हरी युयुजे अश्विना रथमित्यादिमन्त्रोक्तप्रकारेण स्वीकृतवन्त इत्यर्थः । कीदृशास्ते । क्रत्वा वरप्रदानरूपेण कर्मणा मनसा शोभनेन चित्तेनानुग्रहयुक्तेनाभि दीध्याना दीप्यमानाः । देवानामनुग्रहेण किं लब्धमित्याह । सुकर्माशोभनव्यापारो वाजः कनीयान्देवानां सर्वेषां सम्बन्ध्यभवत् । तथेन्द्रस्य संबन्ध्यृभुक्षा ऋभुज्येष्ठः । व्भ्वा मध्यमो वरुणस्य सम्बन्ध्यभवत् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः