मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३३, ऋक् १०

संहिता

ये हरी॑ मे॒धयो॒क्था मद॑न्त॒ इन्द्रा॑य च॒क्रुः सु॒युजा॒ ये अश्वा॑ ।
ते रा॒यस्पोषं॒ द्रवि॑णान्य॒स्मे ध॒त्त ऋ॑भवः क्षेम॒यन्तो॒ न मि॒त्रम् ॥

पदपाठः

ये । हरी॒ इति॑ । मे॒धया॑ । उ॒क्था । मद॑न्तः । इन्द्रा॑य । च॒क्रुः । सु॒ऽयुजा॑ । ये । अश्वा॑ ।
ते । रा॒यः । पोष॑म् । द्रवि॑णानि । अ॒स्मे इति॑ । ध॒त्त । ऋ॒भ॒वः॒ । क्षे॒म॒ऽयन्तः॑ । न । मि॒त्रम् ॥

सायणभाष्यम्

य ऋभवो हरी अश्वौ मेधया प्रज्ञयोखा उक्थैः स्तुतिभिर्मदन्तो हर्षयन्तश्चक्रुः । ये च तौ सुयुजा सुयुजौ सुयोजनावश्वाविन्द्रायेन्द्रार्थं चक्रुः । अकुर्वन् । हे ऋबवस्ते यूयं रायस्पोषं धनपुष्तिं द्रविणानि गवादिधनानि च सुखानि वास्मे अस्मासु धत्त । धारयत । किमिव । क्षेमयन्तः क्षेममिच्छन्तो मित्रं न मित्रमिव । अत्र यद्यप्येक एव ऋभुनामा तत्सम्बन्धादितरेऽप्यृभव उच्यन्ते प्राणभृन्न्यायेन ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः