मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३४, ऋक् १

संहिता

ऋ॒भुर्विभ्वा॒ वाज॒ इन्द्रो॑ नो॒ अच्छे॒मं य॒ज्ञं र॑त्न॒धेयोप॑ यात ।
इ॒दा हि वो॑ धि॒षणा॑ दे॒व्यह्ना॒मधा॑त्पी॒तिं सं मदा॑ अग्मता वः ॥

पदपाठः

ऋ॒भुः । विऽभ्वा॑ । वाजः॑ । इन्द्रः॑ । नः॒ । अच्छ॑ । इ॒मम् । य॒ज्ञम् । र॒त्न॒ऽधेया॑ । उप॑ । या॒त॒ ।
इ॒दा । हि । वः॒ । धि॒षणा॑ । दे॒वी । अह्ना॑म् । अधा॑त् । पी॒तिम् । सम् । मदाः॑ । अ॒ग्म॒त॒ । वः॒ ॥

सायणभाष्यम्

ऋभुर्विभ्वेत्येकादशर्चं द्वितीयं सूक्तं वामदेवस्यार्षं त्रैष्टुभमार्भवम् । ऋभिर्विभ्वेत्यनुक्रमणिका । व्य़ूढे दशरात्रे पञ्चमेऽहनि वैश्वदेवशस्त्र आर्भवनिविद्धानीयमिदम् । ऋभुर्विभ्वा स्तुषे जिनम् । आ. ८-८ । इति सूत्रितत्वात् ॥

ऋभुर्विभ्वा वाज इन्द्रश्चैते देवा नोऽस्मदीयमिमं यज्ञमच्छाभिमुखं रत्नधेयास्मभ्यं रतनधानायोप यात । उपगच्छत । ननु इन्द्रः सोमस्वामित्वादागच्छतु कथमेतेषां यज्ञप्राप्तिरिति चेत् । उच्यते । इदा हीदानीं खलु वो युष्माकं धिषणा वाक् देवी प्रजापतेः सम्बन्धिन्यह्नां सोमाभिषवसम्बन्धिनां पीतिं सोमपानमधात् । स प्रजापतिरब्रवीत्सवितारं तव वा इमेऽन्तेवासास्त्वमेवैभिः सम्पिबस्व । ऐ. ब्रां. ३-३० । इति ब्राह्मणम् । यस्मादेवं तस्मान्मदाश्च वो युष्मान् समग्मत । सङ्गताः । यद्वा । वा मदा देवैः सङ्गताः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः