मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३४, ऋक् २

संहिता

वि॒दा॒नासो॒ जन्म॑नो वाजरत्ना उ॒त ऋ॒तुभि॑रृभवो मादयध्वम् ।
सं वो॒ मदा॒ अग्म॑त॒ सं पुरं॑धिः सु॒वीरा॑म॒स्मे र॒यिमेर॑यध्वम् ॥

पदपाठः

वि॒दा॒नासः॑ । जन्म॑नः । वा॒ज॒ऽर॒त्नाः॒ । उ॒त । ऋ॒तुऽभिः॑ । ऋ॒भ॒वः॒ । मा॒द॒य॒ध्व॒म् ।
सम् । वः॒ । मदाः॑ । अग्म॑त । सम् । पुर॑म्ऽधिः । सु॒ऽवीरा॑म् । अ॒स्मे इति॑ । र॒यिम् । आ । ई॒र॒य॒ध्व॒म् ॥

सायणभाष्यम्

हे वाजरत्नाः सोमलक्षणेनान्नेन राजमाना ऋभवो यूयं जन्मनो जननस्य देवत्वलक्षनस्य देवत्व प्राप्तिं विदानासो जानन्तः । यद्वा । विदानासः सोमप्राप्तिं जानन्तो जन्मनः पूर्वं मनुष्यजन्मवंतश्च सन्तः । उतशब्दाश्चार्थे । ऋतुभिर्देवैः सह मादयध्वम् । वो युष्मान्मदाः सोमपानजनिताः समग्मत । सङ्गताः । उउरन्धिः स्तुतिरपि समग्मत । ते यूयमस्मे अस्माकं सुवीरां शोभनैर्वीरैः पुत्रैरुपेतां रयिमेरयध्वम् । प्रेरयत ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः