मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३४, ऋक् ३

संहिता

अ॒यं वो॑ य॒ज्ञ ऋ॑भवोऽकारि॒ यमा म॑नु॒ष्वत्प्र॒दिवो॑ दधि॒ध्वे ।
प्र वोऽच्छा॑ जुजुषा॒णासो॑ अस्थु॒रभू॑त॒ विश्वे॑ अग्रि॒योत वा॑जाः ॥

पदपाठः

अ॒यम् । वः॒ । य॒ज्ञः । ऋ॒भ॒वः॒ । अ॒का॒रि॒ । यम् । आ । म॒नु॒ष्वत् । प्र॒ऽदिवः॑ । द॒धि॒ध्वे ।
प्र । वः॒ । अच्छ॑ । जु॒जु॒षा॒णासः॑ । अ॒स्थुः॒ । अभू॑त । विश्वे॑ । अ॒ग्रि॒या । उ॒त । वा॒जाः॒ ॥

सायणभाष्यम्

हे ऋभव्वो वो युष्मदर्थमयं यज्ञोऽकारि । यं यज्ञं मनुष्वन्मनुष्यवत्प्रदिवः प्रकर्षेण द्योतमानाः सन्त आ दधिध्वे । धारयत जठरे । तदर्थं वो युष्मानच्छाभिमुख्येन जुजुषाणासः सेवमानाः सोमाः प्रास्थुः प्रतिष्थन्ते । उतापि च धारयित्वा च हे वाजा ऋभवो विश्वे यूयमग्रियाग्रार्हा अग्रत्वसम्पादिनो वा अभूत । भवथ ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः