मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३४, ऋक् ४

संहिता

अभू॑दु वो विध॒ते र॑त्न॒धेय॑मि॒दा न॑रो दा॒शुषे॒ मर्त्या॑य ।
पिब॑त वाजा ऋभवो द॒दे वो॒ महि॑ तृ॒तीयं॒ सव॑नं॒ मदा॑य ॥

पदपाठः

अभू॑त् । ऊं॒ इति॑ । वः॒ । वि॒ध॒ते । र॒त्न॒ऽधेय॑म् । इ॒दा । न॒रः॒ । दा॒शुषे॑ । मर्त्या॑य ।
पिब॑त । वा॒जाः॒ । ऋ॒भ॒वः॒ । द॒दे । वः॒ । महि॑ । तृ॒तीय॑म् । सव॑नम् । मदा॑य ॥

सायणभाष्यम्

हे नरो नेतार ऋभवो वो युष्माकमनुग्रहादिदेदानीं तृतीये सवने रत्नधेयं दातव्यं रत्नं विधते । विधतिः परिचरणकर्मा । स्तुत्या परिचरते दाशुषे हविर्दत्तवते मर्त्याय यजमानाय मह्यमभूत् । भवतु । तदर्थं हे वाजा हे ऋभवः । एतद्ध्वयं विभ्वनामकस्याप्युपलक्षणम् । इतरापेक्षया प्रत्येकं बहुवचनम् । यूयं पिबत । तदर्थं वो ददे । किम् । महि महत्प्रभूतं तृतीयं सवनम् । तत्सम्बन्धिनं सोममित्यर्थः । किमर्थम् । मदाय हर्षाय तृप्तये वा ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः