मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३४, ऋक् ५

संहिता

आ वा॑जा या॒तोप॑ न ऋभुक्षा म॒हो न॑रो॒ द्रवि॑णसो गृणा॒नाः ।
आ वः॑ पी॒तयो॑ऽभिपि॒त्वे अह्ना॑मि॒मा अस्तं॑ नव॒स्व॑ इव ग्मन् ॥

पदपाठः

आ । वा॒जाः॒ । या॒त॒ । उप॑ । नः॒ । ऋ॒भु॒क्षाः॒ । म॒हः । न॒रः॒ । द्रवि॑णसः । गृ॒णा॒नाः ।
आ । वः॒ । पी॒तयः॑ । अ॒भि॒ऽपि॒त्वे । अह्ना॑म् । इ॒माः । अस्त॑म् । न॒व॒स्वः॑ऽइव । ग्म॒न् ॥

सायणभाष्यम्

हे वजा ऋभुक्षा नरो नेतारो यूयं न उपा यात । किं कुर्वन्तः । महो महतो द्रविणसो धनस्य । कर्मणि षष्ठ्यौ । महत् द्रविणं गृणानाः । स्तुवन्तः । किञ्च अह्नामभिपित्वेऽभिपतने समाप्तौ । तृतीये सवन इत्यर्थः । वो युष्मानिमाः पीतयः पानान्या ग्मन् । आगच्छन्ति । तत्र दृष्तान्तः । अस्तम् । गृहनामैतत् । गृहं नवस्वो नवप्रसवा गाव इव ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः