मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३४, ऋक् ६

संहिता

आ न॑पातः शवसो यात॒नोपे॒मं य॒ज्ञं नम॑सा हू॒यमा॑नाः ।
स॒जोष॑सः सूरयो॒ यस्य॑ च॒ स्थ मध्व॑ः पात रत्न॒धा इन्द्र॑वन्तः ॥

पदपाठः

आ । न॒पा॒तः॒ । श॒व॒सः॒ । या॒त॒न॒ । उप॑ । इ॒मम् । य॒ज्ञम् । नम॑सा । हू॒यमा॑नाः ।
स॒ऽजोष॑सः । सू॒र॒यः॒ । यस्य॑ । च॒ । स्थ । मध्वः॑ । पा॒त॒ । र॒त्न॒ऽधाः । इन्द्र॑ऽवन्तः ॥

सायणभाष्यम्

हे शवसो नपातो बलस्य न पातयितारस्तस्य पुत्रावा । बलवन्त इत्यर्थः । यूयं नमसा स्तोत्रेण हूयमाना अकारिताः सन्त इमं यज्ञमुपा यातन । उपागच्छत । कीदृशा यूयम् । सजोषस इन्द्रेण सह प्रीताः सूरयो मेधाविनः । इन्द्रस्य चैषां च कः प्रसङ्ग इत्युच्यते । यस्य च स्थ । चेति प्रसिद्धौ । यस्येन्द्रस्य सम्बन्धिनो यूयं भवथ तदुचिताश्च निर्माणादित्यभिप्रायः । यस्मादेवं तस्मादिन्द्रवन्तः प्रीतेनेन्द्रेण तद्वन्तो रत्नधा रमणीयधनानां दातारो यूयम् मध्वो मधुरं सोमं पात । पिबत ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः