मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३४, ऋक् ७

संहिता

स॒जोषा॑ इन्द्र॒ वरु॑णेन॒ सोमं॑ स॒जोषा॑ः पाहि गिर्वणो म॒रुद्भि॑ः ।
अ॒ग्रे॒पाभि॑रृतु॒पाभि॑ः स॒जोषा॒ ग्नास्पत्नी॑भी रत्न॒धाभि॑ः स॒जोषा॑ः ॥

पदपाठः

स॒ऽजोषाः॑ । इ॒न्द्र॒ । वरु॑णेन । सोम॑म् । स॒ऽजोषाः॑ । पा॒हि॒ । गि॒र्व॒णः॒ । म॒रुत्ऽभिः॑ ।
अ॒ग्रे॒ऽपाभिः॑ । ऋ॒तु॒ऽपाभिः॑ । स॒ऽजोषाः॑ । ग्नाःपत्नी॑भिः । र॒त्न॒ऽधाभिः॑ । स॒ऽजोषाः॑ ॥

सायणभाष्यम्

हे इन्द्र त्वं वरुणेन रात्र्यभिमानिदेवेन सजोषाः समानप्रीतिः सन् सोमं पाहि । पिब । हे गिर्वणो गीर्भिर्वननीय सम्भजनीयेन्द्र त्वं मरुद्भिः सजोषाः सङ्गतः सन् सोमं पाहि । पिब । किञ्च अग्रेपाभिः प्रथमपातृभिऋतुपाभिऋतुयाजदेवैश्च ग्नाःपत्नीभिः । स्त्रीणां पालयित्र्यो देव्यो ग्नाःपत्न्यः । ताभिः । मेनाब्ना इति स्त्रीणामिति निरुक्तम् । ३-२१ । रत्नधाभी रमणीयधनदातृभिऋभुभिः सह पिब । यद्वा । एतत् ग्नाःपत्नीभिरित्यस्य विशेषनम् । ताभिर्वा सजोषाः सोमं पिब ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः