मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३४, ऋक् ८

संहिता

स॒जोष॑स आदि॒त्यैर्मा॑दयध्वं स॒जोष॑स ऋभव॒ः पर्व॑तेभिः ।
स॒जोष॑सो॒ दैव्ये॑ना सवि॒त्रा स॒जोष॑स॒ः सिन्धु॑भी रत्न॒धेभि॑ः ॥

पदपाठः

स॒ऽजोष॑सः । आ॒दि॒त्यैः । मा॒द॒य॒ध्व॒म् । स॒ऽजोष॑सः । ऋ॒भ॒वः॒ । पर्व॑तेभिः ।
स॒ऽजोष॑सः । दैव्ये॑न । स॒वि॒त्रा । स॒ऽजोष॑सः । सिन्धु॑ऽभिः । र॒त्न॒ऽधेभिः॑ ॥

सायणभाष्यम्

ए ऋभव आदित्यैः सजोषसः सङ्गता यूयं माधयध्वम् । तथा पर्वतेभिः पर्ववद्भिः पर्वण्यर्च्यमानैर्देवविशेषैः सजोषसो मादयध्वम् । तथा च दैव्येन देवेभ्यो हितेन सवित्रा सजोषसो रत्नधेभी रत्नानां दातृभि सिन्धुभिः स्यन्दनस्वभावैर्नद्यभिमानिदेवैश्च सजोषसो मादयध्वं ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः