मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३४, ऋक् ९

संहिता

ये अ॒श्विना॒ ये पि॒तरा॒ य ऊ॒ती धे॒नुं त॑त॒क्षुरृ॒भवो॒ ये अश्वा॑ ।
ये अंस॑त्रा॒ य ऋध॒ग्रोद॑सी॒ ये विभ्वो॒ नरः॑ स्वप॒त्यानि॑ च॒क्रुः ॥

पदपाठः

ये । अ॒श्विना॑॑ । ये । पि॒तरा॑ । ये । ऊ॒ती । धे॒नुम् । त॒त॒क्षुः । ऋ॒भवः॑ । ये । अश्वा॑ ।
ये । अंस॑त्रा । ये । ऋध॑क् । रोद॑सी॒ इति॑ । ये । विऽभ्वः॑ । नरः॑ । सु॒ऽअ॒प॒त्यानि॑ । च॒क्रुः ॥

सायणभाष्यम्

य ऋभवोऽश्विनाश्विनावूती ऊत्या क्रियया रथनिर्मानरूपयाप्रीणयन् । ये च पितरा पितरौ ततक्षुः तक्षणेन समपादयन् जीर्णौ सन्तावूती ऊत्या युवानौ चक्रुः । ये च धेनुं ततक्षुः मृतायाः पुनर्नवीकरणेन । ये चाश्वाश्वौ ततक्षुः । निश्चर्मणो गामरिणीत धीतिभिर्या जरन्ता युवशा ताकृणोतनेत्याद्युक्तम् । ऋग्वे. १-१६१-७ । ये चांसत्राम्सत्राणि कवचानि देवेभ्यश्चक्रुः । ये च रोदसी द्यावापृथिव्याव्रुधक् पृथक्चक्रुः । एवमुक्तप्रकारेण ये विभ्वो व्याप्ता ऋभवो नरो नेतारः स्वपत्यानि स्वपतनसाधनानि तत्प्राप्तिसाधनानि वा कर्माणि चक्रुः । तेऽग्रेपा इत्युत्तरत्र सम्बन्धः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः