मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३४, ऋक् १०

संहिता

ये गोम॑न्तं॒ वाज॑वन्तं सु॒वीरं॑ र॒यिं ध॒त्थ वसु॑मन्तं पुरु॒क्षुम् ।
ते अ॑ग्रे॒पा ऋ॑भवो मन्दसा॒ना अ॒स्मे ध॑त्त॒ ये च॑ रा॒तिं गृ॒णन्ति॑ ॥

पदपाठः

ये । गोऽम॑न्तम् । वाज॑ऽवन्तम् । सु॒ऽवीर॑म् । र॒यिम् । ध॒त्थ । वसु॑ऽमन्तम् । पु॒रु॒ऽक्षुम् ।
ते । अ॒ग्रे॒ऽपाः । ऋ॒भ॒वः॒ । म॒न्द॒सा॒नाः । अ॒स्मे इति॑ । ध॒त्त॒ । ये । च॒ । रा॒तिम् । गृ॒णन्ति॑ ॥

सायणभाष्यम्

हे ऋभवो ये यूयं गोमन्तं गोसहितं वाजवन्तमन्नवन्तं सुवीरं शोभनपुत्रोपेतं वसुमन्तं निवासयोग्यगृहादिधनोपेतं पुरुक्शुं बह्वन्नं रयिं धनं धत्थ । धारयथ मह्यं दातुम् । हे ऋभवस्ते यूयमग्रेपाः प्रथमं पातारो मन्दसाना माद्यन्तः सन्तोऽस्मे अस्मभ्यं धत्त । दत्त रयिम् । ये च यूयं रातिं दानं दत्तं सोमं वा गृणन्ति । स्तुवन्ति । ते धत्त । यद्वा । ये च रातिं गृणन्ति यजमानास्तेभ्योऽपि धत्त ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः