मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३५, ऋक् २

संहिता

आग॑न्नृभू॒णामि॒ह र॑त्न॒धेय॒मभू॒त्सोम॑स्य॒ सुषु॑तस्य पी॒तिः ।
सु॒कृ॒त्यया॒ यत्स्व॑प॒स्यया॑ चँ॒ एकं॑ विच॒क्र च॑म॒सं च॑तु॒र्धा ॥

पदपाठः

आ । अ॒ग॒न् । ऋ॒भू॒णाम् । इ॒ह । र॒त्न॒ऽधेय॑म् । अभू॑त् । सोम॑स्य । सुऽसु॑तस्य । पी॒तिः ।
सु॒ऽकृ॒त्यया॑ । यत् । सु॒ऽअ॒प॒स्यया॑ । च॒ । एक॑म् । वि॒ऽच॒क्र । च॒म॒सम् । च॒तुः॒ऽधा ॥

सायणभाष्यम्

ऋभूणां युष्माकमिह तृतीयसवने रत्नधेयं रत्नदानमागन् । आगच्छतु मह्यम् । यद्वा । युष्माकमेव सोमाख्यं रत्नमागन् । यस्मात्सोमस्य सुषुतस्य पीतिः पानमभूत् । प्रजापतिना लब्धमित्यर्थः । तदपि कुत इति चेत् । उच्यते । यद्यस्मात्सुकृत्यया शोभनहस्तव्यापारेण स्वपस्यया शोभनरथनिर्माणादिकर्मेच्छया चैकं सन्तं चमसं चतुर्धा विचक्र । कृतवन्तः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः