मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३५, ऋक् ३

संहिता

व्य॑कृणोत चम॒सं च॑तु॒र्धा सखे॒ वि शि॒क्षेत्य॑ब्रवीत ।
अथै॑त वाजा अ॒मृत॑स्य॒ पन्थां॑ ग॒णं दे॒वाना॑मृभवः सुहस्ताः ॥

पदपाठः

वि । अ॒कृ॒णो॒त॒ । च॒म॒सम् । च॒तुः॒ऽधा । सखे॑ । वि । शि॒क्ष॒ । इति॑ । अ॒ब्र॒वी॒त॒ ।
अथ॑ । ऐ॒त॒ । वा॒जाः॒ । अ॒मृत॑स्य । पन्था॑म् । ग॒णम् । दे॒वाना॑म् । ऋ॒भ॒वः॒ । सु॒ऽह॒स्ताः॒ ॥

सायणभाष्यम्

हे ऋभवो यूयं चमसं चतुर्धा व्यकृणोत । व्यकुरुत । कृत्वा च हे सखे हे सखिभूताग्ने वि शिक्षानुगृहाण सोऽग्निर्युष्मानवादीत् खलु । किमिति । हे वाजा ऋभवः सुहस्ताः कुशलहस्ता यूयममृतस्यामरणधर्मकस्य स्वर्गस्य पन्थां पन्थानमैत । गच्छत किं तदमृतमिति । देवानामिन्द्रादीनां गनं सङ्घातमैत ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः