मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३५, ऋक् ४

संहिता

कि॒म्मयः॑ स्विच्चम॒स ए॒ष आ॑स॒ यं काव्ये॑न च॒तुरो॑ विच॒क्र ।
अथा॑ सुनुध्वं॒ सव॑नं॒ मदा॑य पा॒त ऋ॑भवो॒ मधु॑नः सो॒म्यस्य॑ ॥

पदपाठः

कि॒म्ऽमयः॑ । स्वि॒त् । च॒म॒सः । ए॒षः । आ॒स॒ । यम् । काव्ये॑न । च॒तुरः॑ । वि॒ऽच॒क्र ।
अथ॑ । सु॒नु॒ध्व॒म् । सव॑नम् । मदा॑य । पा॒त । ऋ॒भ॒वः॒ । मधु॑नः । सो॒म्यस्य॑ ॥

सायणभाष्यम्

किम्मयः स्वित् किमात्मक एष चमस आस । स्वित् प्रश्ने । यं चमसमेकं सन्तं काव्येन कवीनां मेधाविनां सम्बन्धिना कर्मणा कौशलेन चतुरो विचक्र । कृतवन्तः । अथाधुना सवनम् । सूयत इति सवनः सोमः । तं मदाय हर्षाय सुनुध्वं हे ऋत्विजः । हे ऋभवो यूयं च सोमस्य सोमसम्बन्धिनं मधुनो मधुरं रसं पात । पिबत ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः