मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३५, ऋक् ५

संहिता

शच्या॑कर्त पि॒तरा॒ युवा॑ना॒ शच्या॑कर्त चम॒सं दे॑व॒पान॑म् ।
शच्या॒ हरी॒ धनु॑तरावतष्टेन्द्र॒वाहा॑वृभवो वाजरत्नाः ॥

पदपाठः

शच्या॑ । अ॒क॒र्त॒ । पि॒तरा॑ । युवा॑ना । शच्या॑ । अ॒क॒र्त॒ । च॒म॒सम् । दे॒व॒ऽपान॑म् ।
शच्या॑ । हरी॒ इति॑ । धनु॑ऽतरौ । अ॒त॒ष्ट॒ । इ॒न्द्र॒ऽवाहौ॑ । ऋ॒भ॒वः॒ । वा॒ज॒ऽर॒त्नाः॒ ॥

सायणभाष्यम्

हे वाजरत्ना रमणीयसोमान्ना हे ऋभवो यूयं शच्या कर्मणा पितरा मातापितरौ युवाना युवानावकर्त । अकुरुत । तथा शच्या चमसं देवपानं देवपानार्हमक्रत । चतुर्धाकुरुतेत्यर्थः । शच्या हरी अतष्त । तक्षणेन सम्पादितवन्तः । कीदृशौ हरी । धनुतरौ शीघ्रं गन्तृतराविन्द्रवाहाविन्द्रवोढारौ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः