मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३५, ऋक् ६

संहिता

यो वः॑ सु॒नोत्य॑भिपि॒त्वे अह्नां॑ ती॒व्रं वा॑जास॒ः सव॑नं॒ मदा॑य ।
तस्मै॑ र॒यिमृ॑भव॒ः सर्व॑वीर॒मा त॑क्षत वृषणो मन्दसा॒नाः ॥

पदपाठः

यः । वः॒ । सु॒नोति॑ । अ॒भि॒ऽपि॒त्वे । अह्ना॑म् । ती॒व्रम् । वा॒जा॒सः॒ । सव॑नम् । मदा॑य ।
तस्मै॑ । र॒यिम् । ऋ॒भ॒वः॒ । सर्व॑ऽवीरम् । आ । त॒क्ष॒त॒ । वृ॒ष॒णः॒ । म॒न्द॒सा॒नाः ॥

सायणभाष्यम्

हे ऋभवो वाजसोऽन्नवन्तो वो युश्मभ्यं यो यजमानोऽह्नामभिपित्वेऽभिपतने । तृतीयसवन इत्यर्थः । तस्मिन् तीव्रं रसवत्तरं सवनम् । सूयत इति सवनः सोमः । तं मदाय सुनोति तस्मै सर्ववीरं बहुपुत्रोपेतं रयिं धनं हे वृशणः फलवर्षितारो मन्दसाना मोदमानाः सन्त आ तक्षत । सम्पादयतेत्यर्थः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः