मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३५, ऋक् ७

संहिता

प्रा॒तः सु॒तम॑पिबो हर्यश्व॒ माध्यं॑दिनं॒ सव॑नं॒ केव॑लं ते ।
समृ॒भुभि॑ः पिबस्व रत्न॒धेभि॒ः सखीँ॒र्याँ इ॑न्द्र चकृ॒षे सु॑कृ॒त्या ॥

पदपाठः

प्रा॒तरिति॑ । सु॒तम् । अ॒पि॒बः॒ । ह॒रि॒ऽअ॒श्व॒ । माध्य॑न्दिनम् । सव॑नम् । केव॑लम् । ते॒ ।
सम् । ऋ॒भुऽभिः॑ । पि॒ब॒स्व॒ । र॒त्न॒ऽधेभिः॑ । सखी॑न् । यान् । इ॒न्द्र॒ । च॒कृ॒षे । सु॒ऽकृ॒त्या ॥

सायणभाष्यम्

हे हर्यश्व हरितवर्णाश्वोपेतेन्द्र प्रातः प्रातः सवने सुतमभिषुतं सोममपिबः । पिबस्व । माध्यन्दिनं सवनं केवलं ते । परं तवैव नान्येषाम् । सवनद्वयस्य पृथगभिधानात्तृतीयसवनं परिशिष्यते । तृतीयसवने रत्नधेभी रमणीयदानैऋभुभिः सं पिबस्व । हे इन्द्र यानृभून् सुकृत्या शोभनकर्मणा सखीन् च कृषे । अकरोः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः