मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३५, ऋक् ८

संहिता

ये दे॒वासो॒ अभ॑वता सुकृ॒त्या श्ये॒ना इ॒वेदधि॑ दि॒वि नि॑षे॒द ।
ते रत्नं॑ धात शवसो नपात॒ः सौध॑न्वना॒ अभ॑वता॒मृता॑सः ॥

पदपाठः

ये । दे॒वासः॑ । अभ॑वत । सु॒ऽकृ॒त्या । श्ये॒नाःऽइ॑व । इत् । अधि॑ । दि॒वि । नि॒ऽसे॒द ।
ते । रत्न॑म् । धा॒त॒ । श॒व॒सः॒ । न॒पा॒तः॒ । सौध॑न्वनाः । अभ॑वत । अ॒मृता॑सः ॥

सायणभाष्यम्

हे ऋभवो ये यूयं सुकृत्या शोभनकर्मणा देवासो देवा अभवत । अभूत । श्येना इवेत् शंसनीयगतयो गृध्रविशेषा इव दिवि द्युलोकेऽधि निषेद अधिनिषण्णाः हे शवसो नपातो बलवन्तस्ते यूयं रत्नं धनं धात । प्रयच्छत । हे सौधन्वना अमृतासोऽमृता देवा अभवत ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः