मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३५, ऋक् ९

संहिता

यत्तृ॒तीयं॒ सव॑नं रत्न॒धेय॒मकृ॑णुध्वं स्वप॒स्या सु॑हस्ताः ।
तदृ॑भव॒ः परि॑षिक्तं व ए॒तत्सं मदे॑भिरिन्द्रि॒येभि॑ः पिबध्वम् ॥

पदपाठः

यत् । तृ॒तीय॑म् । सव॑नम् । र॒त्न॒ऽधेय॑म् । अकृ॑णुध्वम् । सु॒ऽअ॒प॒स्या । सु॒ऽह॒स्ताः॒ ।
तत् । ऋ॒भ॒वः॒ । परि॑ऽसिक्तम् । वः॒ । ए॒तत् । सम् । मदे॑भिः । इ॒न्द्रि॒येभिः॑ । पि॒ब॒ध्व॒म् ॥

सायणभाष्यम्

हे सुहस्ताः शोभनहस्ता ऋभवो रत्नधेयं रमणीयसोमदानवद्यत्तृतीयं सवनमकृणुध्वम् । प्रसाधितवन्तः । स्वपस्या शोभनकर्मेच्छया तदेतत्सवनं सवनगतं सोमद्रव्यं परिषिक्तं परिषेचनवद्वो युष्माकं सम्बन्धिभिर्मदेभिर्माद्यद्भिरिन्द्रियेभिरिन्द्रियैः सं पिबध्वम् । यद्यपि वदनमेव पानसाधनं तथापि चक्षुः श्रोत्रादीनामपि दर्शनश्रवणादिना तृप्तिसद्भावात्पातृत्वमुपचर्यते ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः